Posts

Showing posts from 2018
संस्कृत - प्रसंग इयं वार्ता तस्मिन् समये समये घटिता यदाहं केन्द्रीय विद्यालयस्य लामडिंग (असम नगरे कार्यरतः आसम्। अहं कालांशे छात्रेभ्यः लघु-लघुवाक्यानि लेखयामि स्म वदाामि स्म च। यथा नमो नमः श्रीमन्त! सुप्रभातं श्रीमन्तः! इति।छात्रैः अपि तेषां प्रयोगाः क्रियन्ते स्म। एकदा एकः छात्रः सपरिवारम् आपणे मिलति तदा सः वदति नमो नमः श्रीमन्तः इति। तदानीं तस्य पितरौ छात्रं पृच्छतः इयं का भाषा तदा सः अवदत् इयं संस्कृतभाषा तथा अस्य अर्थः भवति अभिनन्दम् एतत् श्रुत्वा तस्य पितरौ प्रसन्नौ जातौ। अहमपि संस्कृतस्य प्रयोगं दृष्ट्वा अतीव प्रसन्नः अभवम्।